SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ६७ तिथ्यर्कः क्षीरषष्टिकभक्तन सर्वभूतहिते रतः ।। कौमारीमिति वै नाम्ना चण्डिकां पूजयेत्सदा । कृत्वा रौप्यमयीं भक्तया घोरां वै पापनाशिनीम् ।। करवीरस्य पुष्पैस्तु गन्धैश्चागुरुचन्दनैः । धूपेन च दशाङ्गेन मोदकैश्चापि पूजयेत् ।। कुमारी जयेच्छक्त्या स्त्रियो विमान स्वशक्तितः । भुञ्जीत वाग्यतः पश्चाद्विल्वपत्रकृताशनः ॥ एवं सम्पूजयेदार्यान् श्रद्धया परयान्वितः । स याति परमं स्थानं यत्र देवो गुहः स्थितः ॥” इति । भाद्रपदशुक्लनवमी नन्दा । तस्यां दुर्गापूजनमुक्तं भविष्योत्तरे-- "मासि भाद्रपदे या स्यानवमी बहुलेतरा । सा तु नन्दा महापुण्या कीर्त्तिता पापनाशिनी ।। तस्यां यः पूजयेद् दुर्गा विधिवत्कुरुनन्दन !! सेोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ।।" इति । अथाश्विनकृष्णनवम्यामन्वष्टकाश्राद्धम् । तच्चाष्टकाद्युक्त्वाऽऽहाश्वलायन:___ "अपरेधुरन्वष्टक्यम् ।" इति । अथाश्विनशुक्लनवमी महानवमी। सा पूर्वविद्धा। तदुक्तं बृहद्यमेन "श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनम् ॥” इति । बलिदानादि नवम्यामेव कार्यम् , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy