________________
तिथ्यर्क :
तस्मात्तां पूजयेत्तत्र सोपवासेो जितेन्द्रियः । विचित्रैर्बलिभिर्भक्त्या सर्वासु नवमीषु च ॥” इति । वैशाखकृष्णशुक्ल नवम्ये|श्चण्डिकां पूजयेत् । तदुक्तं निर्णयामृते भविष्योत्तरे
६
“वैशाखे मासि राजेन्द्र ! नवम्यां पक्षयोर्द्वयोः । उपवासपरे। भक्त्या पूजमानस्तु चण्डिकाम् || विमानवरमारूढो देवलेोके महीयते ।” इति । ज्येष्ठ शुक्ल नवम्यामुमापूजनमुक्तं भविष्ये
“ज्येष्ठे मासि नृपश्रेष्ठ ! कृत्वा नक्तस्य वै विधिम् । उपवासपरो भक्त्या नवम्यां पूजयेदुमाम् || कुमारीभोजयेच्चापि स्वशक्त्या ब्राह्मणांस्तथा । शाल्यन्नं पयसेोपेतं स्वयं भुञ्जीत वाग्यतः ||" इति । आषाढ कृष्ण शुक्ल नवम्यारैन्द्रीं पूजयेदित्युक्तं तत्रैव -
"उपवासपरो भक्त्या नवम्यां पक्षयोर्द्वयाः । आषाढे मासि राजेन्द्र ! यः कुर्यान्नक्तभोजनम् ॥ पूजयेच्छ्रद्धया दुर्गामैन्द्रीनाम्नां तु नामतः । ऐरावतगतां शुभ्रां स्वेन रूपेण रूपिणीम् || स ऐरावतमारुह्य इन्द्रस्यानुचरो भवेत् । इति । श्रावणकृष्ण शुक्ल नवम्याः कैौमारीपूजा कार्या । तदुक्तं निर्णयामृते भविष्योत्तरे—
श्रावणे मासि राजेन्द्र ! यः कुर्यान्नक्तभोजनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com