SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ततो हामं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् । पूर्वोक्तपद्मकुण्डे वा स्थण्डिले वा समाहितः ।। लौकिकानौ विधानेन शतमष्टोत्तरं ततः । साज्येन पायसेनैव स्मरन् राममनन्यधीः । ततो भक्त्या च सन्तोष्य आचार्य पूजयेन्मुने ! । ततो रामं स्मरन् दद्यादेवं मन्त्रमुदीरयेत् ।। इमां स्वर्णमयीं रामप्रतिमां समलताम् । चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते ।। श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः । इति दत्त्वा विधानेन दद्याद्वै दक्षिणां भुवम् ॥ ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । तुलापुरुषदानादिफलं पामोति सुव्रत ! ॥” इति । इदं च श्रीरामनवमीव्रतं "स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले।" इति वचनान्मलमासे न कार्यम् । "सुजप्तमप्यजप्तं स्यानोपवासः कृता भवेत् । न कुर्यान्मलमासे तु महादानं व्रतानि च ॥" इति माधवीये संग्रहवचनाच्च । अस्यां भद्रकालीपूजनमुक्तं कल्पतरौ ब्राह्मे "चैत्रे नवम्यां शुक्लायां भद्रकाली महाबला । योगिनीनां तु सर्वासामाधिपत्येऽभिषेचिता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy