SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "प्रधानद्रव्यमुद्दिष्टं पायसान्न तिलास्तथा । किंशुकैः सपपैः पूपैः लाजदूर्वीकुरैरपि । यवैर्वा श्रीफलैर्दिव्यैर्नानाविधफलैस्तथा । रक्तचन्दनखण्डैश्च गुग्गुलैश्च मनोहरैः ॥ प्रतिश्लोकं च जुहुयात्सर्वद्रव्याणि च क्रमात् ।" इति । अत्र यद्यपि तृतीयया प्रतीतां किंशुकादीनां परस्परं निरपेक्षसाधनतां बाधित्वा 'सर्वद्रव्याणि च क्रमात्' इति वाक्यशेषस्तेषां प्रत्येकं पृथकसाधनतां विदधाति, तथापि-.. "पायसं सर्पिषा युक्तं तिलैः शुक्लेवि मिश्रितम् । होमयेद्विधिवद् भक्तया दशांशेन नृपोत्तम ! ॥" इति डामरतन्त्रादिवचनैमिश्रितानामेव पायसादीनां साधनता बोध्या । श्लोकाः* सप्तशत्याः । दशमीकृत्यं रुद्रयामले दशम्यामभिषेकं च कृत्वा मूर्ति विसर्जयेत् ।। इति । विसर्जनमन्त्रस्तत्रैव__"इमां पूजां मया देवि ! यथाशक्तिनिवेदिताम् । रक्षणार्थं समादाय ब्रज स्थानमनुत्तमम् ॥” इति । पारणा दशम्यां कार्या, "आश्विने मासि शुक्ले तु कर्त्तव्यं नवरात्रकम् । प्रतिपत्संक्रमेणैव यावच्च नवमी भवेत् ॥" * प्रतिश्लोकं च जुहुयादित्यत्र पठितस्य श्लोकशब्दस्य निरुक्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy