SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०० तिथ्यर्कः : इत्यभिव्याप्त्यर्थ कयावत्पदघटितदेवी पुराणवचनेन नवम्यन्तं नवरात्रविधानात् । तथाहि, पूजात्मके प्रधाने देवीपुराणे कालविधिः श्रूयते - " श्रश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः || ” अतिथिनवकविधानात् पूजायां तावत्संख्यापूरकन त्रमी विधि: सिद्ध: । ततश्च फलिसंस्कारकतया तदङ्गभूतेषूपवासेषु वैकल्पिकतया तत्स्थानापन्नेषु नक्तादिष्वपि तावन्नवसंख्यात्रीहिधर्म इव यवेषु प्रामोति । यानि तु, " तस्मात्त पारयेद्देव ! नवम्यां भक्तितत्परः । नवम्यां पारिता देवी कुलवृद्धिं प्रयच्छति । दशम्यां पारिता देवी कुलनाशं करोति हि ।" इत्यादीनि नवमीपारणाविधायकानि दशमीपारणानिषेधकानि वाक्यानि तानि सम्पूर्ण नवम्युत्तरमवशिष्टनवम्यां पारणा पराणि द्रष्टव्यानि । एवं च "सर्वेषामुपवासानां प्रातरेव हि पारणा" इति वचोऽप्यनुसृतं भवति । यदा तु, "नवम्यां पारणं कुर्याद्दशमीसहिता न चेत् । दशमीसहिता यत्र पारणे नवमी भवेत् ||" "सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति । " इत्यादीन्यपि वचनानि सप्रमाणकानि । तदा नवमीपारणाविषयकाणि वाक्यानि कुलधर्मानवेक्ष्य योज्यानि, इति दिक् । सूत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy