SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः केऽपीदं पारणं कार्यमेव, “सूतके पारणं कुर्यात्" इति पूर्वमुक्तत्वात् । माधवीये कोर्मेऽपि "काम्योपवान प्रक्रान्ते त्वन्तरा मृतस्तके । तत्र काम्यं व्रतं कुर्यादानार्चनविवर्जितम् ।।" इति । "वतयज्ञविवाहेषु श्राद्धे होमेर्चने जपे । प्रारब्धे मूतकं न स्यादनारब्धे तु मूतकम् ।।" इति विष्णुवचनाच्च । प्रारम्भस्तु तेनैवाक्तः "प्रारम्भी वरणं यज्ञे सङ्कल्पी व्रतसत्रयोः । नान्दीमुख विवाहादा श्राद्धं पाकपरिक्रिया ॥” इति । स्त्रीभिरपि रजोदो कार्यम् , "प्रारब्धदीघतपसां नारीणां यद्रजो भवेत् । न तत्रापि व्रतस्य स्यादुपरोधः कदाचन ॥" इति सत्यव्रतवचनात् । इद सधवापरमिति केचित् । विधवायास्तु रजोदर्शने भोजननिषेधात् । श्रीमातामहचरणास्तु विधवाया रजोदर्शने भाजननिषेधाभावात्तस्या अपि पारणा भवत्येव । अस्तु निषेधः, स रागमाप्तभोजननिषेधो न तु वैधः, विधिस्पृष्टे निषेधानवकाशात्ः अन्यथा व्रतहानिः स्यात्, “पारणान्तं व्रतं ज्ञेयम्", इत्युक्ते रिनि युक्तमुत्पश्यन्ति । इयं मन्वादिरपि, “अश्वयुक शुक्लनवमी" इाते वक्ष्यमाणवाक्यात् । कार्तिक शुक्लनवम्यां त्रिरात्रव्रतारम्भं कृत्वा तुलसीविवाहः कार्य इत्युक्तं हेमाद्रौ पाझे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy