SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : "कार्त्तिके शुक्ल नवमीमवाप्य विजितेन्द्रियः । हरि विधाय सैौवर्ण तुलस्या सहितं शुभम् || पूजयेद्विधिवद्भक्तया व्रती तत्र दिनत्रयम् । एवं यथेोक्तविधिना कुर्याद्वैवाहिकं विधिम् ॥” इति । अथ वैवाहिक विधिरुक्तः श्रीविष्णुयामले - १०२ वसिष्ठ उवाच - " विवाहं संप्रवक्ष्यामि तुलस्यास्तु यथाविधि । यथेोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा || दावेव वने वाथ तुलसीं स्वगृहेऽपि वा । मासत्र येण पूर्णेन ततो यजनमारभेत् ॥ सौम्यायने प्रकर्त्तव्यं गुरुशुक्रोदये तथा । अथवा कार्त्तिके मासि भीष्मपञ्चदिनेषु च ॥ वैवाहिकेषु ऋक्षेषु पूर्णिमार्या विशेषतः । मण्डपं कारयेत्तत्र कुण्डं वेदीं तथा पुनः ॥ शान्तिकं च प्रकर्त्तव्यं मातृणां स्थापनं तथा । मातृश्राद्धादिकं सर्वं विवाहवत् समाचरेत् || ब्राह्मणांश्च शुचीन स्नातान वेदवेदाङ्गपारगान् । ब्रह्माणं दैशिकं चैव चतुरश्च तथर्त्विजः ॥" चतुरो ब्राह्मणानिति सम्बन्धः । "वैष्णवेन विधानेन वर्द्धनीकलशे यजेत् । मण्डलं कारयेत्तत्र लक्ष्मीनारायणं शुभम् || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy