SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : स च इदं हि वचनं न भक्षणविधिपरम्, पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षमाप्त्यभावात् । त इदमपञ्चनखभक्षणनिवृत्तिपरमित्ययं परिसंख्याविधिरित्याचय्यैः स्पष्टीकृतत्वात् । विधिराम्नायवाक्यम् | तस्य च प्रामाण्यं स्वतः सिद्धमेव । तन्मूलकत्वात् स्मृत्यादीनामपि विधित्वेन प्रामाण्यम् । स च विधिद्विविधः प्रवर्त्तका निवर्त्तकश्चेति । तत्र प्रवर्त्तको यथा "एकादश्यामुपवसेत्पक्षयोरुभयोरपि " इति । निवर्तको यथा "एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि" इति । एवमुभयविध विध्युक्तकर्मणामधिकरणत्वेन तिथयेोऽङ्गम् । तदुक्तं निर्णयामृत "काले हि कर्म चोद्यते न कर्मणि कालः " । इति । तच विव्यङ्गत्वेन तिथयो निर्णेतव्याः । तनोति विस्तारयति चन्द्रकलां यः कालविशेषः सा तिथिः । यथेोक्तकलया तन्यत इति वा तिथिः । उक्तश्च "तन्यन्ते कलया यस्मात्तस्मात्तास्तिथयः स्मृताः" इति । सातिथिद्विविधा सम्पूर्णा खण्डा च । सम्पूर्णाक्ता स्कन्दपुराणे- ――――――― “प्रतिपत्प्रभृतयः सर्वा उदद्यादुदयाद्रवेः । सम्पूर्णा इति विख्याता हरिवासरवर्जिताः" ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy