________________
तिथ्यर्कः
हरिवासर एकादशी । तत्र सम्पूर्णत्वमग्रे वक्ष्यामः । तदन्या खण्डा। तत्र सन्दिग्धत्वात्खण्डैब निर्णतव्या, न तु सम्पूर्णापि प्रयोजनाभावात् । निर्णयलक्षणमुक्तं निर्णयामृते
"तत्त्वे विप्रतिपन्नानां वाक्यानामितरेतरम् । विरोधपरिहारोत्र निर्णयस्तत्त्वदर्शनम् ॥” इति ।
सर्वतिथिषु स्मृत्यायुक्तमनुष्ठान कृत्यम् । अथ तिथिनिर्णयः । तत्रादौ. संवत्सरारम्भे प्रथमोपस्थितत्वात् प्रतिपन्निणीयते । अस्याश्च नामनिरुक्तिरुक्ता भविष्ये
"तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता । प्रतिपाद्या पदे पूर्व प्रतिपत्तेन सोच्यते" ॥ इति ।
यद्वा, प्रतिपद्यते-उपक्रम्यते मासादिरनयेति प्रतिपत् । सा शुक्लपक्षे प्रतिपत् पूर्वविद्धा ग्राह्या, प्रतिपदप्यमावास्येति युग्मवाक्यात् । सापि यदा पञ्चधा विभक्तस्याश्चतुर्थनागव्यापिनी तदैव पूर्वविद्धा ग्राह्या । अपराह्नोत्तरकाले तु प्रवृत्ता उत्तरविद्धव ग्राह्या, "प्रतिपत्संमुखी कार्या या भवेदपरालकी" इति मदनरत्ने स्कान्दात् । ____संमुखी पूर्वविद्धा कृष्णपक्षे परा, 'प्रतिपत् सद्वितीया स्यादि'त्यापस्तम्बीययुग्मवाक्यात् । उपवासे तु शुक्ला कृष्णापि प्रतिपत्पूर्वैव ग्राह्या,
"प्रतिपत्पञ्चमी चैव उपोष्या पूर्वसंयुता" इति जाबालिवचनात् । अयं सामान्यतो निर्णयः, विशेषत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com