SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः स्तत्र तत्र वक्ष्यते। ननु पूर्वविद्धायां प्रतिपदि विहिता यः पापक्षयार्थमुपवासस्तस्य सङ्कल्पः कि प्रातः कार्यः ? उत प्रतिपत्प्रवेशे ? इति । नायः, “यो यस्य वहितः कालः कर्मणस्तदुपक्रमे । विद्यमाना भवेदङ्ग नोज्झितापक्रमेण तु ॥" इति स्कान्दाद् अमावास्याकाले प्रतिपदुपवाससङ्कल्पायोगात्। न द्वितीयः पक्षः,--प्रातः सङ्कल्पयेद्विद्वानुपवासवतादिकम्' इति वचनात्प्रातः कालस्यैव सङ्कल्पाङ्गत्वयोगात् । सिद्धान्तस्तु "प्रातरारभ्य मतिमान् कुर्यान्नक्तवतादिकम् ।। नापाराले न मध्याह्न पित्र्यकालो हि तो स्मृती ॥" इत्यादिवाक्य : प्रातरेव सङ्कल्पः कार्यः, यद्यपि तदानीं ज्योतिःशास्त्रसिद्धयतिपदभावोऽस्ति तथापि स्मृतिभिरापादितप्रतिपत्साकल्यसनावात् । “यां तिथि समनुप्राप्य अस्त याति दिवाकरः । तिथिः सा सकला ज्ञेया दानाध्ययनकर्मसु ।।" कर्मसु-उपवासनक्तादिपु । अत्रास्तमया -पूर्व त्रिमुहूर्त्ता तिथिवि ज्ञेया न न्यूना । "यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात्रिमुहूर्ति का । धर्मकत्येषु सर्वेषु सम्पूर्णा तां विदुर्बुधाः ॥" इति सौरपुराणात् । तदेवं प्रतिपदुपवासोत्तर परेयुः पारणं प्रातर्विधेयम्, उत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy