________________
तिथ्यर्कः
तिथ्यन्ते-इति सन्देहे तिथ्यन्त एवेति प्रतीमः,
"तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् ।
अतोऽन्यथा पारणे तु व्रतभङ्गमवामुयात् ॥" इति सुमन्तुवचनात् ।
अस्य चापवादो माधवीये-- "तिथ्यन्ते चैव भान्ते च पारणं यत्र चोद्यते ।
यामत्रयोद्धर्ववर्तिन्यां प्रातरेव हि पारणम् ॥” इति । यत्तु देवलवचनम्
"उपवासेषु सर्वेषु पूर्वाह्न पारणं भवेत् ।
अन्यथा तु फलस्याई धर्ममेवोपसर्पति ॥” इति, ततपरविद्धोपवासविषयम्।
"पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना ।
उपोष्य विधिवत् कुर्यात्तत्तदन्ते च पारणम् ॥" इति नैगमात् । धर्म यमम् ।
अत्र माधवस्तु"तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥"
इति स्कन्दपुराणवचनगतादिशब्दगृहीतान्येकभक्त नक्तायाचितान्यपि यां तिथिमुद्दिश्यैतानि पूर्वेयुर्विहितानि परेधुस्तत्तिथिभागेऽतीते पश्चादोजनं कार्यम्, अन्यथा पूर्वदिनानुष्ठितैकभक्तादि व्रतानां वैकल्यं स्यादित्यभिप्रायः-इत्याह । ननु योऽयमुपवासः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com