SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः तिथ्यन्ते-इति सन्देहे तिथ्यन्त एवेति प्रतीमः, "तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् । अतोऽन्यथा पारणे तु व्रतभङ्गमवामुयात् ॥" इति सुमन्तुवचनात् । अस्य चापवादो माधवीये-- "तिथ्यन्ते चैव भान्ते च पारणं यत्र चोद्यते । यामत्रयोद्धर्ववर्तिन्यां प्रातरेव हि पारणम् ॥” इति । यत्तु देवलवचनम् "उपवासेषु सर्वेषु पूर्वाह्न पारणं भवेत् । अन्यथा तु फलस्याई धर्ममेवोपसर्पति ॥” इति, ततपरविद्धोपवासविषयम्। "पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिवत् कुर्यात्तत्तदन्ते च पारणम् ॥" इति नैगमात् । धर्म यमम् । अत्र माधवस्तु"तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥" इति स्कन्दपुराणवचनगतादिशब्दगृहीतान्येकभक्त नक्तायाचितान्यपि यां तिथिमुद्दिश्यैतानि पूर्वेयुर्विहितानि परेधुस्तत्तिथिभागेऽतीते पश्चादोजनं कार्यम्, अन्यथा पूर्वदिनानुष्ठितैकभक्तादि व्रतानां वैकल्यं स्यादित्यभिप्रायः-इत्याह । ननु योऽयमुपवासः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy