SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : पूर्वविप्रतिपदि विहितः स केनापि निमित्तेन तत्र कर्तुं न शक्यते चेत्, तदोत्तरविद्धा गौणकालत्वेन ग्राद्या, किंवा मुख्यकालातिक्रमाद् व्रतत्याग एव काले हि कर्म चोद्यत इत्युक्तत्वात् । तत्र केचित परित्यागमेवाङ्गीचक्रुः, मुख्यकालातिक्रमेणाप्यनुष्टाने यदा कदाप्यनुष्ठानप्रसङ्गात, नायं दोषः, प्रतिपद्दर्शनाभावेन यदा कदाचिदनुष्ठानप्रसङ्गप्रसक्त्यभावात, विशेष्याaratयैव विशेषणस्याभ्यर्हितत्वात । अतएव माधवः - ७ कदाचित्तदसम्भवे मानान्तरेणाप्यनुष्ठानमेव श्रेयो न तु तल्लोपी युक्त इत्याह । तत्र सामान्यतः सर्वतिथिषु तिथिपतित्वेनाग्न्यादिपूजनं कार्यमित्युक्तं निर्णयामृते वह्निपुराणे "प्रतिपद्यजा स्याद् द्वितीयायां च वेधसः । दशम्यामन्तकस्यापि षष्ठयां पूजा गुहस्य च ॥ चतुर्थ्यां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च ॥ अष्टम्यां च चतुर्दश्यामेकादश्यां शिवस्य च । द्वादश्याञ्च त्रयोदश्यां हरेश्व मदनस्य च ॥ शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत् । पर्वणीन्दोस्तिथिष्वासु पक्षद्वयगतास्वपि ॥ इति" । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy