SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: पूजनमित्यस्य सर्वत्रान्वयः । प्रतिपदातिथीनां त्रिरावृत्त्या नन्दादिसंज्ञोक्ता रत्नमालायाम् - " नन्दा च भद्रा च जया च रिक्ता । पूर्णेति सर्वास्तिथयः क्रमात्स्युः ॥” इति । क्रमात प्रतिपदादितिथिषु वर्ज्यानि उक्तानि पद्मपुराणे - " क्रमात्कूष्माण्डबृहती तरुणीमूलकं तथा । श्रीफलञ्च कलिङ्गञ्च फलं धात्रीभवं तथा ॥ नारिकेलमला बुं च पटोल वदरीफलम् । चर्मवृत्तावली च शाक तुलसिजं तथा ॥ शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ||" इति । अथ चैत्र शुक्लप्रतिपन्निर्णीयते । संवत्सरारम्भे उदय व्यापिनी ग्राह्या, “चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमेऽहनि । शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ||" इति माधवीयब्राह्म वाक्यात् | दिनद्वये तद्वयाप्तौ पूर्वा, सम्पूर्णत्वात । श्रव्याप्तावपि वृद्धवशिष्ठवचनात् पूर्वैव । वचन' त्वग्रे वक्ष्यते । अत्र ब्रह्मपूजोक्ता मदनरत्ने ब्रह्मपुराणे चैत्रशुक्लप्रतिपत्कृत्योपक्रमे -- " तस्यामादौ च सम्पूज्या ब्रह्मा कमलसम्भवः ||" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy