________________
तिथ्यर्क:
पूजनमित्यस्य सर्वत्रान्वयः । प्रतिपदातिथीनां त्रिरावृत्त्या
नन्दादिसंज्ञोक्ता रत्नमालायाम् -
" नन्दा च भद्रा च जया च रिक्ता ।
पूर्णेति सर्वास्तिथयः क्रमात्स्युः ॥” इति । क्रमात प्रतिपदादितिथिषु वर्ज्यानि उक्तानि पद्मपुराणे -
" क्रमात्कूष्माण्डबृहती तरुणीमूलकं तथा । श्रीफलञ्च कलिङ्गञ्च फलं धात्रीभवं तथा ॥
नारिकेलमला बुं च पटोल वदरीफलम् । चर्मवृत्तावली च शाक तुलसिजं तथा ॥ शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ||" इति ।
अथ चैत्र शुक्लप्रतिपन्निर्णीयते । संवत्सरारम्भे उदय
व्यापिनी ग्राह्या,
“चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमेऽहनि ।
शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ||"
इति माधवीयब्राह्म वाक्यात् | दिनद्वये तद्वयाप्तौ पूर्वा, सम्पूर्णत्वात । श्रव्याप्तावपि वृद्धवशिष्ठवचनात् पूर्वैव । वचन' त्वग्रे वक्ष्यते ।
अत्र ब्रह्मपूजोक्ता मदनरत्ने ब्रह्मपुराणे चैत्रशुक्लप्रतिपत्कृत्योपक्रमे --
" तस्यामादौ च सम्पूज्या ब्रह्मा कमलसम्भवः ||" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com