SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः हेमाद्री विष्णुधर्मोत्तरे च "चैत्रमासस्य या शुक्ला प्रथमा प्रतिपद्भवेत् । तदह्नि ब्रह्मणः कृत्वा सेोपवासन्तु पूजनम् ॥ संवत्सरमवाप्नोति सौख्यानि भृगुनन्दन ! ।" इति । प्रथमा सर्वतिथीनामाया। अत्रैव शकादिश्रवणमुक्तं ज्योतिःशास्त्रे भविष्ये"चैत्रे मारित महावाहा पुण्या या प्रतिपत्परा । अस्यां वै निम्बपत्राणि प्राश्य संशृणुयात्तिथिम् । शकवत्सरभूपमन्त्रिां रसधान्येश्वरमेघपतीनाम् । श्रवणात्पठनाच्च वै नृणां शुभतां यात्यशुभं सह श्रिया॥” इति इदं मलमासे न कार्यम्, "पष्टया तु दिवसैर्मासः कथितो वादरायणैः । पूर्वमर्द्ध परित्यज्य कर्तव्या चोत्तरे क्रिया ॥" इति ज्योतिःशास्त्रं पितामहवचनात् । सिन्धुकारास्तु मल एव वत्सरारम्भः कार्य इति निष्कर्षमाहुः, स त्वनिष्कर्ष एव, वाचनिकनिषेधात् । इह च वार्षिकनवरात्रारम्भ उक्तो मार्कण्डेयपुराणे "शरत्काले महापूजा क्रियते या च वापिकी। वसन्तकाले सा नोक्ता कार्या सर्वः शुभार्थिभिः ॥” इति । नवरात्रकृत्रं शारदनवरात्रे वक्ष्यते । प्रपादानं चात्रैवोक्त भविष्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy