SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विथ्यर्कः "अतीते फालगुने मासि प्राप्ते चैत्रमहोत्सवे । पुण्येऽह्नि विपकथिते प्रपादानं समारभेत् ॥” इति । दानशब्दात्र उत्सर्गपरः, "ततश्चोत्सर्जयेद्विद्वान् मन्त्रेणानेन,मानवः।" इति तत्रैवोक्तः। मन्त्रश्च "प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता । अस्याः प्रदानात् पितरस्तृप्यन्तु हि पितामहाः ॥ अनिवार्य जलं देयं ततो मासचतुष्टयम् । त्रिपक्षं वा महाराज ! जीवानां जीवनं परम् ।। प्रत्यहं कारयेत्तस्यां भोजनं शक्तितो द्विजान् ।" इति । अशक्तेन घटो देय इति तत्रैवोक्तम् "प्रपां दातुमशक्तेन विशेषाद्धर्ममीप्सुना। प्रत्यहं धर्मघटको वस्त्रसंवेष्टिताननः ॥ ब्राह्मणस्य गृहे देयः शीतामलजलः शुचिः।" इति । घटदाने च मन्त्रः "एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात्सकला मम सन्तु मनोरथाः ॥ अनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति । प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy