SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः अस्यां तैलाभ्यङ्गा नित्यः। वचनं त्वग्रे वक्ष्यते । ज्येष्ठशुक्लप्रतिपत्प्रभृति दशम्यन्त दशाश्वमेधस्नानेन पापनिवृत्तिरुक्ता काशीखण्डे "ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् । दशाश्वमेधिके स्नात्वा मुच्यते सर्वपातकैः ॥ एवं सर्वासु तिथिषु क्रमात्स्नायी नरोत्तमः । आ शुक्लपक्षदशमी प्रतिजन्माधमुत्सृजेत् ॥” इति । भाद्रशुक्लप्रतिपदि महत्तमाख्यं शिवव्रतमुक्तं स्कन्दपुराणे "मासि भादपदे शुक्ल पक्षे च प्रतिपत्तिथा । नैवेद्यन्तु पचेन्मानात् पोडश त्रिगुणानि च । फलानि पिष्टपक्वानि दद्याद् विप्राय षोडश । देवाय षोडश तथा दातव्यानि प्रयत्नतः ॥ भुज्यन्ते षोडशैतानि व्रतस्य नियमाश्रयात् ।" इति । रुद्रव्रतत्वादिदं विद्धायामेव कार्यम् । तदुक्तं ब्रह्मवैवर्ते "रुद्रव्रतेषु सर्वेषु कर्तव्या संमुखी तिथिः ।" इति । संमुखी सायाह्नव्यापिनी, "संमुखी नाम सायाह्नव्यापिनी दृश्यते यदा ।" इति माधवीयस्कान्दात् । आश्विनकृष्णप्रतिपदि महालयश्राद्धारम्भः कार्यः। आश्विनशुक्लपतिपदि शरनवरात्रारम्भ उक्तो हेमाद्रौ धौम्येन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy