SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "आश्विने मासि शुक्ले तु कर्तव्यं नवरात्रकम् । प्रतिपदाक्रमेणैव यावच्च नवमी भवेत् ॥” इति । अत्र पूर्वाह्वव्यापिनी ग्राह्या, "आश्विनस्य सिते पक्षे नवरात्रमुपोषकः । सुस्नातस्तिलतैलेन पूर्वाह्ने पूजयेच्छिवाम् ॥" इति देवीपुराणे तस्य कर्मकालतोक्तः । ___ अह्नः पूर्वी भागः पूर्वाह्नः । स च दिवसस्य पञ्चधा विभागेन त्रिमुहूर्तात्मको ज्ञेयः, "मुहूर्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तस्यादपरातोऽपि तादृशः ॥ सायाह्नस्त्रिमुहूर्तस्तु सर्वकर्मबहिष्कृतः ॥" इति माधवीयव्यासेोक्तः। देवीपुराणेऽपि"प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् । प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ॥” इति । यत्तु सिन्धुकारैर्वचनमलेखि "भास्करोदयमारभ्य यावत्तु दशनाडिकाः । प्रातःकाल इति प्रोक्तः स्थापनारोपणाविधौ ॥" इति विष्णुधर्मोक्तं तन्महानिबन्धेष्वसत्वाद् भ्रान्तिमूलकमेव । अत्र यानि द्वितीयाऽमावास्यायोगनिषेधकानि वाक्यानि तानि हेमाव्यादिष्वसत्वान्निर्मूलानि, परस्परं सत्मतिपक्षत्वादनिर्णायकानि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy