________________
तिथ्यर्कः
तत्पुत्रेण दिवाकरेण विदुषा श्रीनीलकण्ठपभोदौहित्रण बुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यर्कः क्रियते प्रणम्य पितरं बालां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ॥ ५ ॥
अत्र विध्युक्तकर्मानुष्ठानफललब्ध्यर्थ तदङ्गत्वेन षोडशतिथीनां निर्णयः कृत्यश्चोच्यते । अत्यन्ताप्राप्तपापण हि विधिः । तदुक्तं वार्तिककारैः
"विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते" ॥ इति ।
अस्यार्थः—यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सेोऽपूर्वविधिः । यथा-'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिः । ज्योतिष्टोमस्य हि स्वर्गार्थत्वं न प्रमाणान्तरेण सिद्धं किन्त्वनेनैव विधिना, तस्मादयमपूर्वो विधिः । पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा-'नीहीनवहन्यादि'त्यादिः । नियमो नामाप्राप्तांशपूरणम् । अयं विधिर्नावघातस्य वैतुष्यार्थत्वबोधकः, किन्तु नियमबोधकः । वैतुष्यस्य हि नानोपायसाध्यत्वाद् यदाऽवघातं परित्यज्योपायान्तरं ग्रहीतुमारभते, तदाऽवघातस्यामाप्तत्वेनावघातविधानात्मकमप्राप्तांशपूरणमेव करोत्ययं विधिः। पक्षेप्राप्ततादशायामवघातविधानमित्यर्थः। उभयस्या युगपत्माप्तावितरव्यावृत्तिपरो विधिः परिसंख्याविधिः। यथा-'पञ्च पश्चनखा भक्ष्याः' इत्यादिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com