________________
श्रीः श्रीगणेशाय नमः।
श्रीदिवाकररचितः तिथ्यर्कः
. जानकीनयनयुग्मगोचरं मानिनां नयनयोरगोचरम् । नीलमेघरुचिरच्छवि सदा भावये मनसि राघवं मुदा ॥१॥ उत्पत्त्यादिप्रकर्तारं हर्तारं तमसः परम् । दातारं सर्वकामानां तं भजेऽहं विकर्त्तनम् ॥ २॥ श्रीरामेश्वरमूरिसूनुरभवन्नारायणाख्यो महान् येनाकार्यविमुक्तके सुविधिना विश्वेश्वरस्थापना । तत्पुत्रो विबुधाधिपः क्षितितले श्रीशङ्करस्तत्सुतो जातो भास्करपूजकः पृथुयशाः श्रीनीलकण्ठो बुधः ॥ ३ ॥ भारद्वाजकुलेऽमले समभवत् श्रीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजाना गुरुः । तत्सूनुः प्रथमो महामणिरिव प्रख्यातकीर्तिगुणैर्जातो न्यायनये बृहस्पतिसमो नाम्ना महादेवकः ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com