________________
२२४
तिथ्यर्क:
सपत्नीकं समभ्यर्च्य तांश्च विप्रान् क्षमापयेत् ॥ युष्मत्मसादाद् देवेशः प्रसन्नो मम सर्वदा । व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ॥ तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु सन्ततिः । मनोरथाश्च सफलाः सन्तु नित्यं तवार्चनात् ॥ देहान्ते परमं स्थानं प्राप्नुयामतिदुर्लभम् । इति क्षमाप्य तान् विप्रान् प्रसाद्य च विसर्जयेत् ॥ कार्त्तिके वा तपसि विधिरेवं विधो मतः ॥"
इति कार्त्तिकेयेोद्यापन विधिः । अथ मार्गशीष्य प्रत्यवरोहणमुक्तम्, तत् प्रयोगरत्ने द्रष्टव्यम् । अत्र विशेषो विष्णुस्मृती"मार्गशीर्ष शुक्लपञ्चदश्यां मृगशिरोयुक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं ब्राह्मणाय प्रतिपादयेत् । तेन कर्मणा रूपसौभाग्यलाभो जयः" इति ।
अथ पौष्यां विशेषो ब्रह्मपुराणे -
" इदं जगत् पुरा लक्ष्म्या व्यक्तमासीत्ततो हरिः । पुरन्दर सामथ तथा पुष्यबृहस्पती || पञ्चैते पुष्ययेोगेन पौर्णमास्यां तपोबलात् । श्रलङ्कृतं पुनचक्रुः सौभाग्योत्सव केलिभिः ॥ तस्मान्नरः पुष्ययोगे तत्र सौभाग्यवृद्धये । गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com