SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: ऊर्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती । व्रत सम्पूर्णतार्थाय विष्णुप्रीत्यर्थमेव च ॥ तुलसीमूलदेशे तु सर्वतोभद्रमेव च । पञ्चभिः वर्णकैः सम्यक् शोभाढ्य ं समलङ्कृतम् ॥ तस्योपरि सपिधानं पञ्चरत्नसमन्वितम् । महाफलेन संयुक्तं कुम्भं तत्र निधाय च ॥ पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरम् । कौशेयपीतवसनं युक्तं जलधिकन्यया ॥ इन्द्रादिलोकपालांश्च मण्डयेत् पूजयेत् व्रती । द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां यतः सुरैः ॥ दृष्टोऽचितचतुर्दश्य तस्मात् पूज्यस्तिथाविह । तस्यामुपवसेद् भक्त्या शान्तः प्रयतमानसः । पूजयेद् देवदेवेशं सौवण गुर्वनुज्ञया । उपचारैः षोडशभिर्नानाभक्ष्य समन्वितैः ॥ रात्री जागरणं कुर्याद् गीतवाद्यादिमङ्गलैः । ततश्च पौर्णमास्यां च सपत्नीकान् द्विजोत्तमान् ॥” “त्रिंशमितांस्तथैवैकं स्वशक्त्या वा निमन्त्रयेत् । अता देवा इति द्वाभ्यां जुहुयात् तिलपायसम् || प्रीत्यर्थ देवदेवस्य देवानाञ्च पृथक् पृथक् । दक्षिणां च यथाशक्त्या प्रदद्यात् प्रणमेच्च तान् || गुरु' व्रतोपदेष्टारं वखालङ्करणादिभिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat २२३ www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy