SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७० तिथ्यर्कः "अज्ञानान्धेन यत्किश्चिद् मया खण्डं व्रतं कृतम् । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ यथाखण्डं जगत्सर्व त्वमेव पुरुषोत्तमः । तथा खण्डमखण्डं मे व्रतं भवतु केशव ! ॥" इति । यथासम्भवमागतान् ब्राह्मणान् यथाशक्ति भोजयित्वेष्टैः सह नारायणस्मरणपूर्वकं भोजनं कुर्यादित्यर्थः । तथैव नारदीये द्वादशीप्रकरणे "ब्राह्मणान् भोजयेच्छक्तया प्रदद्यादक्षिणां तथा । ततः खबन्धुभिः साद वारायणपरायणः ॥ कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ।" इति । पारणाहे विशेषः स्कान्दे "कृत्वा चैवोपवासं तु योऽश्नीयाद् द्वादशीदिने । नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥” इति । हेमाद्री विष्णुरहस्ये "परमापदमापनो हर्षे वा समुपस्थिते । सूतके मृतके चैव न त्याज्यं द्वादशीव्रतम् ॥" इति । अत्र वान्युक्तानि ब्रह्माण्डे "कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च प्रवासं च दिवास्वापमथाञ्जनम् ॥ तित(ल)पिष्टं ( १ ) मसूरं च द्वादशैतानि वैष्णवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy