SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६६ तिथ्यर्कः "चतुरो वार्षिकान् मासान् नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यस्तदद्याद्भक्त्या सदक्षिणम् ॥ एवं विसर्जयेद् विघं ततो भुञ्जीत तत्स्वयम् ।" इति । इयं मन्वादिः, “कार्त्तिके द्वादशी तथा" इति वाक्यात् । माघशुक्लद्वादशी तिलद्वादशी। तदुक्तं ब्रह्मपुराणे "माघे तु शुक्लद्वादश्यां यमो हि भगवान् पुरा । तिलानुत्पादयामास तपः कृत्वा सुदारुणम् ॥ राजा दशरथो भूतस्तस्यां तानवतारयत् । तिलानामाधिपत्ये तु विष्णुस्तत्र सुरैः कृतः ॥ तस्यामुपोषितः स्नात्वा तिलैः सम्यग यजेद्धरिम् । तिलतैलेन दीपाश्च देया देवगृहेषु च ॥ निवेदयेत् तिलानेव होतव्याश्च तथा तिलाः । तिलान् दत्वा तु विप्रेभ्यो भक्षयेच्च तथा तिलान् ॥"इति । अथ सर्वासु द्वादशीषु व्रतसमर्पणं कृत्वा पारणं कुर्यादित्युक्तं कात्यायनेन "प्रातः स्नात्वा हरि पूज्य उपवासं समर्पयेत् । पारणं तु ततः कुर्याद् यथासम्भवमागतः ॥" इति । समर्पणे मन्त्रस्तत्रैव "अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ! प्रसीद सुमुखो नाथ ! ज्ञानदृष्टिपदो भव ॥" इति । अपरार्केपि २२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy