________________
१६८
तिथ्यर्कः उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रां जगत्पते !। त्वयि सुप्ते जगन्नाथ ! जगत् सुप्तं भवेदिदम् ॥ विबुद्धे च विबुद्ध्येत प्रसन्नो मे भवाऽच्युत !। उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ! ॥ गता मेघा विपच्चैव निर्मलं निर्मला दिशः ।
शारदानि च पुष्पाणि गृहाण मम केशव ! ॥" इदं देवोत्थापनमिदानीन्तना रामार्चनचन्द्रिकात एव द्वादश्यां कुर्वन्ति । वस्तुतस्तु तत्र श्रीरामोत्थापनमेव युक्तम्, राघवादिशब्दग्रहणात् । इतरेषां ऋतुभुजामेकादश्यामेव पूर्वोक्तवचनादिति । तच्च प्रभाते कार्यम्,
"रात्री जागरणं कुर्यादेकादश्यां सुरालये ।
प्रभाते विमले स्नात्वा देवमुत्थापयेत्सुधीः ॥" इति भविष्यत्पुराणात् । ततो देवाग्रे चातुर्मास्यव्रतसमाप्तिः कार्या,
"चतुर्दा गृह्य वै चीण चातुर्मास्यं व्रतं नरैः ।
कार्ति के शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ।।" इति भारते उक्तत्वात् । तत्र मन्त्रः
"इदं व्रतं मया देव ! कृतं प्रीत्यै तब प्रभो ! ।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन : ॥” इति । ततो ब्राह्मणेभ्यो नियमं कथयित्वा सदक्षिण तद् द्रव्यं दत्वा पारणं कुर्यात् । तदुक्तं ब्राह्मे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com