SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥” इति । बृहस्पतिरपि - "दिवानिशं परान्नं च पुनर्भोजनमैथुने । क्षौद्रं कांस्यामिषे तैलं द्वादश्यामष्ट वर्जयेत् ॥” इति । कांस्यं भोजनपात्रम् । श्रमिषाणि चोक्तानि रामार्चनचन्द्रकायां पाद्मे "प्राण्यङ्गचूर्ण चर्माम्बु जम्बीरं बीजपूरकम् । अयज्ञशिष्टं मांसादि यद्विष्णोर निवेदितम् ॥ दग्धमन्नं मसूरश्च मांसं चेत्यष्टधाऽऽमिषम् ।" तथा १७१ "गोछागमहिषी दुग्धादन्यदुग्धादि चामिषम् ।। धान्ये मसूरिका प्रोक्ता अन्नं पर्युषितं तथा । द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥ ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् । आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥” इति । ताम्रपात्रस्थमैक्षवमपि निषिद्धम्, “ऐक्षवं ताम्रपात्रस्थं गोमांससदृशं मुने ! ।" इति ब्रह्मवैवर्तवचनात् । द्वादशी बुधवारेण सिद्धा | रविवारेण क्रकचाख्या विरुद्धा | योगिन्यत्र नैर्ऋ त्याम् । इति द्वादशी निर्णीता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy