SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७२ तिथ्यर्क: अथ त्रयोदशी निर्णीयते— सा शुक्ला पूर्वा, कृष्णोत्तरा । तदुक्तं माधवेन" शुक्ला त्रयोदशी पूर्वा परा कृष्णत्रयोदशी ।" इति । दीपिकायामपि - “त्रयोदशी तिथिः पूर्वा सितेऽथासिते पश्चात् " इति । उपवासेऽप्ययमेव निर्णयः । शिवपूजानक्तभोजनात्मकमदेोषत्रते तु प्रदोषव्यापिनी ग्राह्या, "पक्षद्वये त्रयोदश्यां निराहारो भवेदिवा । घटिकाभिरस्तमयात्पूर्वं स्नानं समाचरेत् ॥ शुक्लाम्बरधरो भूत्वा वाग्यता नियमान्वितः । कृतसन्ध्याजपविधि: शिवपूजां समारभेत् ॥” इति ब्रह्मोत्तरखण्डे तत्रैव पूजाविधानात् ; " ततस्तु लोहिते भानौ स्नात्वा सनियमो व्रती । पूजास्थानं ततो गत्वा प्रदोषे शिवमर्चयेत् ॥” इति स्कान्दाच्च । प्रदोषश्च - "प्रदोषस्त्रिमुहूर्तः स्याद्भानावस्तं गते सति । " इत्युक्तो बाध्यः । दिनद्वये प्रदोषव्याप्तौ परैव, “यदि स्यादुभयेोस्तिथ्योः प्रदोषव्यापिनी तिथिः । तदोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः ॥” इति । हेमाद्रिधृतजा बालिवाक्यात् । ' उभयत्र' दिवा रात्रावपीत्यर्थः । दिन प्रदोषाभावेऽपि परैव ―― Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy