________________
तिथ्यर्कः "अतथात्वे परत्र स्यात्तत्रार्वागस्तता दिवा ।" इति वाक्यात् । 'अतथात्वे' दिनद्वये प्रदोषकाले तिथेरभावे । पक्षप्रदोषव्रते वारभेदेन फलभेदोप्युक्तः स्कन्दपुराणे
“यदा त्रयोदशी शुद्धा मन्दवारेण संयुता। प्रारब्धव्यं व्रतं तत्र सन्तानफलसिद्धये ॥ ऋणनिर्माचनार्थे तु भौमवारेण संयुता। सौभाग्यस्त्रीविद्धयर्थं शुक्रवारेण संयुता॥
आयुरारोग्यसिद्धयर्थं भानुवारेण संयुता ।" इति । इदं प्रदोषव्रतं मन्दवारे प्रशस्तम् , कृष्णपक्षे मन्दे त्वतिप्रशस्तम् । तदुक्तं ब्रह्मोत्तरखण्डे
"मन्दवारं प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ।
तत्रापि दुर्लभस्तस्मिन् कृष्णपक्षे समागतः ॥" इति । अध्ययनप्रदोषमाह कालादर्श बृहन्मनुः
"चतुर्थी च त्रयोदश्यां सप्तम्यामर्द्धरात्रतः ।
अर्वानाध्ययनं कुर्याद्यदीच्छेत्तस्य धारणम् ॥" अस्यार्थः-चतुर्थादितिथीनामर्द्धरात्रादर्शक सत्त्वेऽर्द्धरात्रं यावत्पदोष इति । दिनद्वयेऽपि तथात्वे दिनद्वयं प्रदोषः । स्मृत्यर्थसारमते चतुर्थी विशेषः
"चतुर्थाः पूर्वरात्रे तु नवनाडीषु दर्शने । नाध्यायं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ॥ अर्द्धरात्रात्पुरा चेत्स्यानाध्येय पूर्वरात्रके ॥" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com