SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७४ तिथ्यर्कः अथ चैत्रशुक्लत्रयोदश्यनङ्गत्रयोदशी। अस्यामनङ्गपूजोक्ता निर्णयामृते कूर्मपुराणे-- "मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजयेद् व्यजनेन च ॥ ततः संधुक्षितः कामः पुत्रपौत्रसमृद्धिदः ।" इति । हेमाद्रौ भविष्येऽपि"चैत्रात्सवे सकललोकमनोनिवासे कामं त्रयोदशतिथौ च वसन्तयुक्तम् । पत्न्या सहाय॑ पुरुषप्रवरोऽथ योषि त्सौभाग्यरूपसुतसौख्ययुतः सदा स्यात् ॥" वैशाखशुक्लत्रयोदश्यां वैशाखस्नानारम्भः कार्य इत्युक्तं पद्मपुराणे "त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् । अपि सम्यग विधानेन नारी वा पुरुषोऽपि वा । प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते । इति ।" स्नानविधिस्तु चैत्रशुक्लैकादश्यामुक्तः। इदं च सम्पूर्णवैशाखस्नानाशक्तौ ज्ञेयम् । भाद्रकृष्णत्रयोदशी युगादिरित्युक्तं पाक । भाद्रोवामान्तो ज्ञेयः, चान्द्रमासस्य मुख्यत्वात् । भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं कार्यम्, "मासि भाद्रपद शुक्ले त्रयोदश्यां समारभेत् ।" इति हेमाद्रौ भविष्योत्तरवचनात् । अत्र त्रयोदश्यनुरोधेन निर्णय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy