________________
तिथ्यर्क:
१७५
त्रिरात्रस्य । इयं च त्रयोदशी प्रातःकालवर्तिनी ग्राह्मा | दिनद्वये चेत्पूर्वा, सम्पूर्णत्वात् । कार्त्तिक कृष्ण त्रयोदश्यां सन्ध्यायामपमृत्युनाशार्थं दीपदानं कार्यम्,
"कार्त्तिकस्य सिते पक्षे त्रयोदश्यां निशामुखे । यमदीपं वहिर्दद्यादपमृत्युर्विनश्यति || "
इति चन्द्रप्रकाशे उक्तत्वात् । बहिगृहाद्वहिः । दीपदाने प्रदोषवर्तिनी ग्राह्या, ' त्रयोदश्यां निशामुखे' इत्युक्तेः । निशामुखं प्रदेोषः । ' प्रदोषो रजनीमुखम्' इत्यमरः । प्रदेोषः -- 'प्रदेोषस्तमयादूर्ध्व घटिकाद्वयमिष्यते' इत्युक्तलक्षणे। ज्ञेयः । घटिकाद्वयस्य मुखावधिसमर्पकत्वात् | दिनद्वये तत्र चेत्परा | दिनद्वये तत्राभावे पूर्वा । दीपदाने मन्त्र:" मृत्युना पाशदण्डा त्रयोदशीदीपदानात् सूर्यजः प्रीयतां मम ॥” इति । कार्त्तिकः पूर्णिमान्तो ग्राह्यः, तथैवाचारात् । कार्त्तिकशुक्लत्रयोदश्यादिदिनत्रये काश्यां पञ्चनदे स्नाताः पुण्यभाजा भवन्तीत्युक्तं काशीखण्डे
कालेन श्यामया सह ।
" वाराणस्यां पञ्चनदे त्र्यहं स्नातास्तु कार्त्तिके | श्रमी ते पुण्यवपुषः पुण्यभाजोऽतिनिर्मलाः ॥” इति । अत्र केचिद् यत् किञ्चिद्दिनत्रयमिच्छन्ति । बहवस्त्विदमेव त्रयोदश्यादिदिनत्रयमाहुः । माघशुक्लत्रयोदश्यादि दिनत्रये माघस्नानं कार्यम्,
―――➖
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com