SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "अस्मिन् योगे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ॥" इति पाद्मात् । चैत्रकृष्णत्रयोदशी योगविशेषेणाऽतिप्रशस्तेत्युक्तं स्कान्दे- १७६ " वारुणेन समायुक्ता मधै कृष्णत्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता । शुभयोगसमायुक्ता शनौ शतभिषा यदि || महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ।” इति । अत्र चैत्रः कृष्णप्रतिपदादिग्रह्यः, तत्रैव शतभिषायोग संभवात् । त्र कृत्यं कल्पतरौ ब्रह्माण्डे "चैत्रकृष्ण त्रयोदश्यां शनौ शतभिषा यदि । वारुणीति समाख्याता शुभेन महती स्मृता ॥ पद्ममष्टदलं कृत्वा तण्डुलैर्द्रोणसम्मितैः । सौवर्ण राजतं ताम्रं मृण्मयं वा घटं शुभम् ॥ सितवस्त्रेण संवेष्ट्य वारिपूर्ण सपल्लवम् । पद्मस्य कर्णिकायां तु स्थापयेन्मन्त्रतः क्रमात् ॥ तन्मध्ये स्थापयेद्देवं वरुणं हेमनिर्मितम् । पलेन वा तदर्द्धेन तदर्द्धेनापि शक्तितः ॥ उपचारः षोडशभिः पूजयित्वा यथाविधि । कलशं मूर्तिसंयुक्तं ब्राह्मणाय प्रदापयेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy