SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् । सर्वपापैर्विनिर्मुक्तो यथेष्टां प्राप्नुयाद् गतिम् ॥” इति । अयं योगा गौडेष्वतिप्रसिद्धः । त्रयोदशी भौमेन सिद्धा । सोमेन विरुद्धा | योगिन्यस्यां दक्षिणस्यामिति त्रयोदशी निर्णीता || अथ चतुर्दशी निर्णीयते । सा शुक्लेतरा । तदुक्तं नारदीये " तृतीयैकादशी षष्ठी शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्याः कर्त्तव्याः परसंयुताः ॥” इति । कृष्णा पूर्वा, १७७ "कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा प्रकर्त्तव्या परविद्धा न कर्हिचित् ॥” इत्यापस्तम्बे|क्तेः । उपवासे तु शुक्ला कृष्णापि परयुतैव ग्राह्या, "एकादश्यष्टमी षष्ठी उभे पक्ष चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥ १ इति मदनरत्ने वृद्धवसिष्ठोक्तः । यत्तु 'कृष्णपक्षेऽष्टमी चैव' इति वचने कृष्णचतुर्दश्या उपवासे पूर्वविद्धात्वमुक्तम्, तद् रुद्रोपवासविषयम्, " रुद्रतेषु सर्वेषु कर्त्तव्या सम्मुखी तिथिः ।" इति पूर्वमुक्तत्वात् । रुद्रवतं स्कन्दपुराणे दर्शितम्" चतुर्दशी तु कर्त्तव्या त्रयोदश्या युता विभो ! | मम भक्तैर्महाबाहो ! भवेद्या चापराह्निकी ।।" इति । २३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy