SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७८ तिथ्यर्क: अत्र मम भक्तैरितीश्वरोक्तिलिङ्गादस्य रुद्रव्रतसम्बन्धिचतुर्दशीविषयत्वं विज्ञायते । चैत्रशुक्लचतुर्दशी रात्रिव्यापिनी कार्या, “मधेोः श्रावणमासस्य शुक्ला या तु चतुर्दशी । " सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्नगामिनी ॥ " इति बौधायनवाक्यात् । परा अन्या अन्यमासगता शुक्लचतुर्दशी पूर्वाह्नगामिन्युत्तर विद्धेत्यनुवादः । श्रीमातामहास्तु रात्रिव्यापिनीत्येतत्पूर्वविद्धापरमित्यूचुः । तत्र स्पष्टार्थत्वाद्रात्राचैव पशुपतीश्वरपूजाविधानाच्च पूर्वमतमेव युक्तमाभाति । अस्यां काममहोत्सव उक्तो हेमाद्रौ देवीपुराणे “चैत्रे सितचतुर्दश्यां भवेत्काममहोत्सवः । जुगुप्सितोक्तिभिस्तत्र गीतवस्त्रादिभिनृणाम् || भगवांस्तुष्यते कामः पुत्रपौत्रसमृद्धिदः । " इति । इयमेव पशुपतीश्वरपूजने रात्रिव्यापिनी ग्राह्या, “चैत्र शुक्लचतुर्दश्यामुपोषणपरायणः । पूजयित्वा पशुपतिं रात्रौ जागरणं तथा ।। निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्यतः । अतस्तत्र चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥” इति ब्रह्मवैवर्त्तात् । - वैशाख शुक्ल चतुर्दशी नृसिंह जयन्ती । तदुक्तं गोविन्दा - वे ब्राह्मे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy