________________
तिथ्यर्कः
१७६ "शुक्लपक्षे चतुर्दश्यां मासि माधवसंज्ञके ।
प्रादुर्भूतो नृपश्चास्यस्तस्मात्तां समुपोषयेत् ।।" इति । 'नृपश्चास्यो' नृसिंहः। इयं प्रदोषव्यापिनी ग्राह्या,
"वैशाखस्य चतुर्दश्यां सोमवारेऽनिलक्षके ।
अवतारो नृसिंहस्य प्रदोषसमये द्विजाः ॥" इति स्कान्दात
"वैशाखशुक्लपक्षस्य चतुर्दश्यां विवस्वति । अस्तंगामिनि सर्वेषां पुरः स्तम्भस्य मध्यतः ।। प्रबभूव महाविष्णुनरसिंहाकृतिप! । राधशुक्ल चतुर्दश्यां शुद्ध वणिजवायुभे ।। मन्दवारे नृसिंहोऽभूत् त्रेतायां चादिकल्पके ।
सायंकाले सदसतां रक्षादमनकारणात् ॥" इति नृसिंहभविष्यपुराणाच ।
अत्राऽस्मन्मातुः पितामहचरणाःनृसिंहपुराणे सामान्यतः काल उत्पत्तेरुक्तः, विवस्वत्यस्तंगामिनीति घटिकापरिमाणानुक्तेः। तस्य स्कान्देन निर्णयः । तत्र हि प्रदोष उपात्तः। तल्लक्षणं च हेमाद्रावुक्तम्
___ "त्रिमुहूर्तः प्रदोषः स्याद्रानावस्तं गते सति ।" इति । तस्यापि सङ्कोचो भविष्यपुराणेन तत्र सायंकाल इत्युक्तः ।
"नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् ।" इति । अत्र यद्यपि सायंशब्देन परोऽवधिर्न लभ्यते, तथापि प्रदोषशब्देन
___Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com