SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १७६ "शुक्लपक्षे चतुर्दश्यां मासि माधवसंज्ञके । प्रादुर्भूतो नृपश्चास्यस्तस्मात्तां समुपोषयेत् ।।" इति । 'नृपश्चास्यो' नृसिंहः। इयं प्रदोषव्यापिनी ग्राह्या, "वैशाखस्य चतुर्दश्यां सोमवारेऽनिलक्षके । अवतारो नृसिंहस्य प्रदोषसमये द्विजाः ॥" इति स्कान्दात "वैशाखशुक्लपक्षस्य चतुर्दश्यां विवस्वति । अस्तंगामिनि सर्वेषां पुरः स्तम्भस्य मध्यतः ।। प्रबभूव महाविष्णुनरसिंहाकृतिप! । राधशुक्ल चतुर्दश्यां शुद्ध वणिजवायुभे ।। मन्दवारे नृसिंहोऽभूत् त्रेतायां चादिकल्पके । सायंकाले सदसतां रक्षादमनकारणात् ॥" इति नृसिंहभविष्यपुराणाच । अत्राऽस्मन्मातुः पितामहचरणाःनृसिंहपुराणे सामान्यतः काल उत्पत्तेरुक्तः, विवस्वत्यस्तंगामिनीति घटिकापरिमाणानुक्तेः। तस्य स्कान्देन निर्णयः । तत्र हि प्रदोष उपात्तः। तल्लक्षणं च हेमाद्रावुक्तम् ___ "त्रिमुहूर्तः प्रदोषः स्याद्रानावस्तं गते सति ।" इति । तस्यापि सङ्कोचो भविष्यपुराणेन तत्र सायंकाल इत्युक्तः । "नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् ।" इति । अत्र यद्यपि सायंशब्देन परोऽवधिर्न लभ्यते, तथापि प्रदोषशब्देन ___Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy