________________
तदस्य निर्माणविधौ भवद्भिर्भूयेत सम्प्रत्यययुक्तचित्तैः । तदाऽनुमेने वचनं स तस्य दृष्टे कथं विप्रतिपत्तिसत्त्वम् ।। ततोऽस्य साहाय्यमुपेत्य शम्भो: अचीकरच्छेष्ठनिकेतनं सः । प्रतिष्ठपन्मूर्तिमुमेश्वरस्य प्रीतिप्रदामास्तिकमानवानाम् ॥
[भट्टवंशव० का० स० ३]
महापण्डितस्यास्य विषये जनश्रुतिरेषापि प्रचरति, यद् दिल्लीश्वरस्यार्कवरस्य सभाया रत्नभूतेन टोडरमल्लमहाशयेन स्वपितुः श्राद्धतिथी नानादेशेभ्योऽनेके समाहूता: पण्डितप्रवराः। तेषु गौडाः, दाक्षिणात्याः, मैथिलाः, काशोस्थाश्च निखिलवर्गीया विद्यावदातहृदया धन्या: पण्डिसमूर्धन्या आसन् । श्राद्धदिने विनयावनतष्टोडरमल्लः सप्रश्रयं तान् पण्डितपतीनुवाच-महाभागाः, सत्सु विद्यातपोमूर्तिषु अमरगुरुकल्पेषु भगवत्सु किं नाहमस्मि एतत्प्रत्यक्षमवगन्तुं समो यत् श्राद्धकर्मणानेन पितरो मे तृप्तिमुपगता इति। पृच्छामिमामाकर्ण्य मौनमुद्रामाश्रितेषु सकलेषु पण्डितेषु तत्रभवान् नारायणभट्टो वाचामविषयेण तपोबलेन विद्याबलेन च तव पितरोऽनेन श्राद्धेन तृप्ता इति तं प्रत्यक्षं दर्शितवान् । तत्र शास्त्रवादे विप्रतिपन्नान् समान् पण्डितान विजितांश्च । वेनाश्चर्यकारिकर्मणा भृशं तुतोष टोडरमल्लः। पृष्टांश्च तं पण्डितप्रवरं भवर्ता किमभीष्टमनुष्ठीयता मयेति। तदानों धर्मविद्वेषिणा केनचिद् यवनेन वाराणसी भग्नविश्वेश्वरमन्दिरा अदृश्यशिवलिङ्गा च कृतासीत् । वरिवस्याव्यसनिनो विश्वेश्वरदिदताक्षुधाकुलाश्चाहादयितुमिच्छुः पण्डिताग्रणी रायणभट्टः सन्तुष्टं टोडरमल्लं काश्यां विश्वेश्वरं स्थापयितुमनुरुद्धवान् । तेन सम्राडर्कवरः प्रार्थितः। तेन स्वीकृता तत्प्रार्थना। सम्राजा तेन यत् स्वीकृतिपत्रं टोडरमल्लसविधे प्रेषितं वत् स्वर्गीय म० म० श्रोहरप्रसादशात्रिमहोदयैरधिगतमिति श्रूयते । तैः ( Indian Antiquary for 1912 ) पत्रे नारायणभट्टस्य विषये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com