________________
तिथ्यर्कविषयानुक्रमणिका
२७५ निर्णयः कुन्दसंज्ञा च तस्या एव प्रकीर्तिता । फाल्गुनादिषु मासेषु चतुषु व्रतमोरितम् ॥ ४० ॥ तदुद्यापनरीतिस्तु पूजामन्त्रस्ततः परम् । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ॥ ४१ ॥ पञ्चमीनिर्णयश्चाऽथ सामान्येन प्रकीर्तितः । चैत्रे मासि तु पञ्चम्यां श्रीपूजनमुदीरितम् ॥ ४२ ॥ कल्पादीनां तु कथनं नागपूजननिर्णयः । निर्णयो ऋषिपञ्चम्यास्तत्कृत्यं चापि सर्वशः ।। ४३ ॥ उपाङ्गललितादेव्याः पूजाकालविनिर्णयः । मार्गशुक्लस्य पञ्चम्या निर्णयस्तदनन्तरम् ॥ ४४ ॥ माघमासस्य पञ्चम्यां वसन्तोत्सवनिर्णयः । अथ सिद्धविरुद्धादियोगिनोनिर्णयस्ततः ॥ ४५ ॥ संमोक्तो निर्णयः षष्ठ्याः पञ्चमीवेधनिर्णयः । यात्रा लोलार्कदेवस्य स्कन्दषष्ठोविनिर्णयः ॥ ४६ ॥ कुमारषष्ठयपि प्रोक्ता कपिलाषष्ठिका तथा । तत्कत्यं चापि निर्दिष्ट संज्ञान्तरमुदाहृतम् ॥ ४७॥ विल्वाभिमन्त्रणविधिर्वहिपूजादिवासरः । चम्पाषष्ठी पुनः प्रोक्ता स्कन्दषष्ठयपि सा मता ॥ ४८ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । सप्तमीनिर्णयश्चाऽथ समासेन प्रदर्शितः ॥ ४९ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com