SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २७४ तिथ्यर्कविषयानुक्रमणिका मासद्वयेऽप्ययं पक्षो रम्भाव्रतविनिर्णयः । विशालाक्ष्यर्चनविधिः कज्जलीनिर्णयस्ततः ॥ ३० ॥ भाद्रशुक्लतृतीयाया निर्णयो ललिताविधिः । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ।। ३१ ।। चतुर्थीनिर्णयश्चाथ साधारण्येन कीर्तितः । चैत्रशुक्लचतुर्थ्यान्तु गणेशार्चनमीरितम् ।। ३२ ॥ ज्येष्ठशुक्लचतुर्थ्यान्तु पार्वतीपूजनं स्मृतम् । सनिर्णयात्र कथिता संकष्टाख्या चतुर्थिका ॥ ३३ ॥ बहुलावतकालस्य निर्णयः संप्रदर्शितः । भाद्रशुक्लचतुर्थ्यास्तु विस्तरेण विनिर्णयः ।। ३४ ॥ चन्द्रस्य दर्शने दोषो दोषशान्तिस्तवो मनः । तिथेरस्याश्च भौमादियोगपाशस्त्यमीरितम् ॥ ३५ ॥ संज्ञान्तरं शिवाख्येति मार्गशुक्लचतुर्थिका ।। एकभक्तस्वरूपं तु सनिर्णयमुदाहृतम् ॥ ३६ ॥ नक्तस्वरूपं तत्कालः सन्ध्याशब्दार्थ एव च । सौरनक्तं यतेनक्तं विधवानक्तमेव च ॥ ३७ ॥ नक्तव्रतियमाः प्रोक्ता अयाचितविनिर्णयः । तत्फलं तत्र कालस्य निर्णयो निखिलः कृतः ॥ ३८ ॥ माघकृष्णचतुर्थ्यान्तु संकष्टाख्यं व्रतं स्मृतम् । माघशुक्लचतुर्थ्यास्तु तिलसंज्ञा प्रकीर्तिता ॥ ३९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy