________________
२७३
तिथ्यर्कविषयानुक्रमणिका श्वपचस्पर्शनं स्नानं होलिकाभूतिवन्दनम् । तन्मन्त्रश्चूतकुसुमपाशनं मन्त्रसंयुतम् ।। २० ॥ पूर्वविद्धा तिथिह्येत्युक्तं वेध उदाहृतः । सायं वेधस्ततः प्रोक्तोऽभ्यङ्गो नित्य इतीरितम् ॥ २१ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । द्वितीयानिर्णयः प्रोक्तः साधारण्येन कृत्स्नशः ॥ २२ ॥ चैत्रशुक्लद्वितीयायाममापूजाऽग्निपूजनम् । पोक्ता तिथिः सेोपपदा तत्राऽध्ययनवर्जनम् ॥ २३ ॥ रामयात्रोत्सवस्याथ कालः सर्वोऽपि कीर्त्तितः । बृहत्तपावतं चोक्तमशुन्याख्यव्रतं तथा ॥ २४ ॥ यमद्वितीया निर्णीता तत्कृत्यं चापि विस्तरात् । चैत्रकृष्णद्वितीयायामनङ्गोत्सव ईरितः ॥ २५ ॥ उत्सवे निर्णयः प्रोक्तस्तिथेः सिद्धविरुद्धकः । योगिनोनिर्णयः प्रोक्तस्तृतीयानिर्णयस्ततः ॥ २६ ॥ साधारणः समुदितस्तता दोलोत्सवः स्मृतः । गौरीपूजनकालस्तु सनिर्णय उदाहृतः ॥ २७ ॥ सौभाग्यव्रतकालोऽथ जयन्ती मत्स्यसंज्ञिका । तृतीयाऽक्षयसंज्ञा तु सनिर्णयमुदाहृता ॥ २८ ॥ तत्कृत्यञ्चाऽपि सम्प्रोक्तं रेणुकासूनुसंभवः । तत्कालनिर्णयश्चाऽथ मलमासे युगादयः ॥ २९ ॥ ३५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com