SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २७२ तिथ्यर्कविषयानुक्रमणिका तदभावे घटानां तु दानमुक्तं फलप्रदम् । अभ्यङ्गनित्यता प्रोक्ता ज्येष्ठप्रतिपदः कृतिः ॥१०॥ भाद्रशुक्लप्रतिपदः कृत्यमुक्तं महालयः । आश्विनस्य सिते पक्षे नवरात्रानुवर्णनम् ॥ ११ ॥ कलशस्थापनं कालकीर्तनं तु ततः परम् । त्रिरात्रं चैकरात्रं च फलभेदेन कीर्तितम् ॥ १२ ॥ वेदिकानिर्मितिश्चात्र कलशद्रव्यकीत्तनम् । प्रतिमाद्रव्यकथनं तदाकारप्रकीर्तनम् ॥ १३ ॥ वेदिकापरिमाणं च नियमाः पूजकस्य च । देवीपूजाप्रयोगस्तु कुमारीपूजनं ततः ॥ १४ ॥ वयाप्रमाणं तस्यास्तु पूजनानह कन्यकाः । कन्याभावे प्रतिनिधिश्चण्डीपाठजपे विधिः ॥ १५ ॥ सूतके पूजन प्रोक्तं देव्यास्तत्र विशेषतः । भेदोऽपि कथितश्चात्र मलमासनिषेधनम् । १६ ।। चतुर्णामपि वर्णानामधिकारः प्रकीर्तितः । अश्वपूजा ततः प्रोक्ता तद्विधानक्रमोपि हि ॥ १७ ॥ अथायुधानां पूनाया मन्त्राः सर्वे यथाक्रमम् । निर्दिष्टाः कार्तिकस्यापि प्रतिपनिर्णयः शुभः ॥ १८ ॥ तैलाभ्यङ्गस्य कथनं द्यूत पर्वतपूजनम् । बल्यर्चनानुकथनं चैत्रप्रतिपदः कृतिः ॥ १९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy