SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीवैजनाथरचिताः तिथ्यर्कविषयानुक्रमणिकाश्लोकाः दिवाकरतनूजेन वैजनाथेन धीमता । खबाणसप्तभूयुक्त वर्षे माधवसंज्ञके ॥ १ ॥ मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्ध्यर्थमनया श्लोकमालया ॥ २ ॥ मङ्गलाचरणं पूर्व मातृवंश्यानुवर्णनम् । स्वस्य वंश्यानुचरितं ततेा विधिनिरूपणम् ॥ ३॥ तिथिरूपं ततः प्रोक्तं तद्वैविध्यमुदाहृतम् । लक्षणं निर्णयस्योक्तं प्रतिपन्निर्णयस्ततः ॥ ४॥ नानो निरुक्तिस्तस्यास्तु शुक्ले पूर्वापरेऽपरा । उपवासे तु पूर्वैव पक्षद्वयगतापि हि ॥ ५ ॥ सङ्कल्पः प्रातरेवात्र पूर्वविद्धास्वपीरितः । तिथ्यन्ते पारणं प्रोक्तं सापवादं परेऽहनि ॥ ६ ॥ एकभक्तादिषु तथा गौणकालेऽप्युपेषणम् । ततः कर्मोपयुक्तत्वात्तिथिदेवप्रपूजनम् ॥ ७ ॥ ततेा मन्दादिसंज्ञोक्ता तिथिवर्णानुकीर्त्तनम् । चैत्रशुक्लप्रतिपदा निर्णयेो ब्रह्मपूजनम् ॥ ८ ॥ शकादिश्रवर्ण तत्र निम्बप्राशनमेव च । वासन्तनवरात्रं च प्रपादानं तथैव च ॥ ९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy