________________
२७६
तिथ्यर्कविषयानुक्रमणिका मधुमासस्य शुक्लायां सप्तम्यां भास्करार्चनम् । वैशाखशुक्लसप्तम्यां गङ्गापूजननिर्णयौ ॥ ५० ॥ आषाढशुक्लसप्तम्यां सूर्यपूजनवर्णनम् । इषस्य शुक्लसप्तम्यां देवीपूजननिर्णयः ॥ ५१ ॥ त्रिरात्रकालकथनं दुर्गापूजागृहादिकम् ।। विल्वशाखार्चनं पश्चाच्छाखानयनवर्त्म च ॥ ५२ ।। मूलः पूजनं देव्याः सरस्वत्याः समीरितम् । स्थापितायां महादेव्यामध्यापननिषेधनम् ।। ५३ ॥ मार्गशीर्षादिमासेषु सप्तमीश्राद्धकीर्तनम् । सहसः शुक्ल सप्तम्यां मित्रपूजनमीरितम् ।। ५४ ॥ तत्प्रयोगोऽथ माघस्य सप्तमीनिर्णयः क्रमात । दीपदानविधिः प्रोक्तो रथदानं तथैव च ॥ ५५ ॥ तत्र लोलार्कयात्रा च विजयासप्तमी तथा । योगः पद्मकसंज्ञस्तु सिद्धासिद्धकथानकम् ।। ५६ ॥ योगिनीनिर्णयः पश्चादष्टमीनिर्णयस्तथा । सर्वाष्टमीषु दुर्गायाः पूजनं समुदीरितम् ।। ५७ ॥ चैत्राष्टम्यां भवान्यास्तु यात्रोक्ता शोकनाशिनी । अशोककलिकाभुक्तिस्तत्रोक्ता मन्त्रपूर्वकम् ॥ ५८ ॥ स्नानं लौहित्यतायेन बुधयोगप्रशंसनम् । सहकारफलैः स्नानं वैशाखे ह्यष्टमीदिने ।। ५९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com