SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ निय २६७ अथ स्त्रीव्रतेषु व्रतहेमाद्रौ विशेषः "गन्धालङ्कारताम्बूलपुष्पमालानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥” इति । इदं च ताम्बूलादि तासां सौभाग्यव्रतेष्वेव न दुष्यति; एकादश्यादा तु दुष्यत्येव, तत्र तनिषेधात् । हेमाद्रौ पाने "गर्भिणी सूतिकादिश्च कुमारी वाऽथ रोगिणी । यदाऽशुद्धा तदाऽन्येन कारयेत् प्रयता स्वयम् ।।" इति । 'प्रयता' शुद्धा स्वयं कुर्यादित्यर्थः। मदनरत्ने मात्स्येऽपि "अन्तरा तु रजोयोगे पूजामन्येन कारयेत् ।" इति । प्रतिनिधीनाह निर्णयामृते पैठीनसिः "भार्या पत्युव्रतं कुर्याद् भाव्याश्च पतिव्रतम् । असामर्थेऽपरस्ताभ्यां व्रतभङ्गो न जायते ॥" स्कान्देऽपि "पुत्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥” इति । पराशर: "उपवासो व्रतं होमस्तीर्थस्नानजपादिकम् । विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥" इति । मदनरत्ने प्रभासखण्डे "भर्ता पुत्रः पुरोधाश्च भ्राता पत्नी सखाऽपि च । यात्रायां धर्मकार्येषु जायन्ते प्रतिहस्तकाः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy