________________
निय
२६७ अथ स्त्रीव्रतेषु व्रतहेमाद्रौ विशेषः
"गन्धालङ्कारताम्बूलपुष्पमालानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥” इति । इदं च ताम्बूलादि तासां सौभाग्यव्रतेष्वेव न दुष्यति; एकादश्यादा तु दुष्यत्येव, तत्र तनिषेधात् । हेमाद्रौ पाने
"गर्भिणी सूतिकादिश्च कुमारी वाऽथ रोगिणी ।
यदाऽशुद्धा तदाऽन्येन कारयेत् प्रयता स्वयम् ।।" इति । 'प्रयता' शुद्धा स्वयं कुर्यादित्यर्थः। मदनरत्ने मात्स्येऽपि
"अन्तरा तु रजोयोगे पूजामन्येन कारयेत् ।" इति । प्रतिनिधीनाह निर्णयामृते पैठीनसिः
"भार्या पत्युव्रतं कुर्याद् भाव्याश्च पतिव्रतम् ।
असामर्थेऽपरस्ताभ्यां व्रतभङ्गो न जायते ॥" स्कान्देऽपि
"पुत्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।
एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥” इति । पराशर:
"उपवासो व्रतं होमस्तीर्थस्नानजपादिकम् ।
विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥" इति । मदनरत्ने प्रभासखण्डे
"भर्ता पुत्रः पुरोधाश्च भ्राता पत्नी सखाऽपि च । यात्रायां धर्मकार्येषु जायन्ते प्रतिहस्तकाः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com