SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६८ तिथ्यर्कः एभिः कृतं महादेवि ! स्वयमेव कृतं भवेत् ।" इति । अत्र कश्चिद्विशेषः "काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके व सः । काम्येषूपक्रमा केचित्प्रतिनिधि विदुः ॥” इति । छागलेयः "पूर्व व्रतं गृहीत्वा यो नाचरेत्काममोहितः ।। जीवन् भवति चाण्डालो मृतः श्वा चाभिजायते ॥" गरुडपुराणे "क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद् यदि । दिनत्रयं न भुञ्जीत मण्डनं शिरसो भवेत् ।।" इति । प्रायश्चित्तादनन्तरमन्तरितव्रतं कार्यम्, ___"प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।" इति वायुपुराणात् । या तु प्रायश्चित्ताम्नानादतिक्रान्तव्रतानुष्ठानं नास्तीति गम्यते इति केषाश्चिदुक्तिः, सा भ्रान्तिभूलिकैव । अथ निमित्तानुरोधेन सदा पुण्यकालः । हेमाद्री विष्णुधर्मोत्तरे "कालः सर्वोऽपि निर्दिष्टः पात्रं सर्वमुदाहृतम् । अवाप्तस्य प्रदाने तु नात्र कार्या विचारणा ।। तदैव दानकालः स यदोभयमुपस्थितम् ।" तथा-"नहि कालं प्रतीक्षेत जलं दातुं तृषान्वित । अनोदकं सदा देयमित्याह भगवान् मनुः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy