SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: २६६ स्कान्दे "अर्द्धप्रमूर्ता गां दद्यात् कालादि न विचारयेत् । कालः स एव ग्रहणे यदा वै द्विमुखी तु गौः ।।" इति । होता व्यासः "आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् । तदभावे तु गौरव नरकोद्धारणाय वै॥ तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् । शक्तोऽन्योऽरुक तदा दत्त्वा श्रेयो दद्यान्मृतस्य च ॥" वाराहे "व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः। पुण्यकालास्तथा सर्वे यदा मृत्युरुपस्थितः ॥ तदा भूमिहिरण्यादि दत्तमक्षयतामियात् ।" इति । विष्णुपुराणे "यदा वा जायते वित्त चित्त श्रद्धासमन्वितम् । तदैव दानकालः स्याद् यतोऽनित्यं हि जीवितम् ॥” इति दिक । श्रीबालकष्णात्मजसूनुनिर्मिती वर्षे खवेदाश्वहिमांशुसंयुते । कृति विलोक्याऽखिलकालनिर्णय निःशङ्कमाशंसतु पण्डितो जनः ॥ १॥ बुधानामुपकाराय धर्मशास्त्रसुधानिधिः । दिवाकरेण रचितः सुधानिधिरिवापरः ॥ २॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy