SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६६ तिथ्यर्कः मदनरत्ने भविष्ये "क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ॥ सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।" इति । कूर्मपुराणे "बहिामान्त्यजासूर्ति पतितं च रजस्वलाम् । न स्पृशेन्नाभिभाषेत नेक्षेत व्रतवासरे ॥" विष्णुरहस्ये "स्मृत्यालोकनगन्धादि स्वादनं परिकीर्तनम् । अन्नस्य वर्जयेत्सर्वं ग्रासानां चाभिकाङक्षणम् ।। गात्राभ्यङ्गं च ताम्बूलं शिरसश्चानुलेपनम् । व्रतस्थो वर्जयेत् सर्व यच्चान्यद् बलरागकृत् ॥" पृथ्वीचन्द्रोदयेऽग्निपुराणे "व्रीहिषष्टिकमुद्गाश्च कलापाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ॥ कूष्माण्डालाबुवार्ताकपालकीज्योत्स्निकास्त्यजेत् । चरुर्भेक्ष्यं सक्तुकणान् शाकं दधि घृतं मधु ।। श्यामाकाः शालिनीवाराः पावकं मूलतण्डुलम् । हविष्यव्रतनक्तादावग्निकार्यादिके हितम् ॥ मधु मासं विहायान्यद् व्रते च हितमोरितम् ।" इति । 'पालकी' पाई, 'ज्योस्निका' कोशातकी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy