________________
२६६
तिथ्यर्कः मदनरत्ने भविष्ये
"क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ॥
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।" इति । कूर्मपुराणे
"बहिामान्त्यजासूर्ति पतितं च रजस्वलाम् ।
न स्पृशेन्नाभिभाषेत नेक्षेत व्रतवासरे ॥" विष्णुरहस्ये
"स्मृत्यालोकनगन्धादि स्वादनं परिकीर्तनम् । अन्नस्य वर्जयेत्सर्वं ग्रासानां चाभिकाङक्षणम् ।। गात्राभ्यङ्गं च ताम्बूलं शिरसश्चानुलेपनम् ।
व्रतस्थो वर्जयेत् सर्व यच्चान्यद् बलरागकृत् ॥" पृथ्वीचन्द्रोदयेऽग्निपुराणे
"व्रीहिषष्टिकमुद्गाश्च कलापाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ॥ कूष्माण्डालाबुवार्ताकपालकीज्योत्स्निकास्त्यजेत् । चरुर्भेक्ष्यं सक्तुकणान् शाकं दधि घृतं मधु ।। श्यामाकाः शालिनीवाराः पावकं मूलतण्डुलम् । हविष्यव्रतनक्तादावग्निकार्यादिके हितम् ॥ मधु मासं विहायान्यद् व्रते च हितमोरितम् ।" इति । 'पालकी' पाई, 'ज्योस्निका' कोशातकी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com