SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २६५ नया दिशा ज्ञेयौ। अपराह्णद्वयव्यापिनीत्यत्र कालद्वयव्यापित्वं विवक्षितमित्यास्तां तावत् । अथ व्रतविधि व्याख्यास्यामः । तत्राधिकारिणो मदनरत्ने भविष्ये "अनग्नयस्तु ये विप्रास्तेषां श्रेयो विधीयते । व्रतोपवासनियमै नादानैस्तथा नृप ! ॥" इति शूद्रोऽपि "शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रस्वधाखाहावषट्कारादिभिर्विना ॥" इति व्यासेोक्तव्रताधिकारमर्हति । सवास्त्रोणान्तु भत्रनु. ज्ञयैव व्रताधिकारः "भार्या पत्युर्मतेनैव व्रतादीनाचरेत्सदा ।" इति माधवीये कात्यायनोक्तेः। व्रतारम्भकालमाह मदनरत्ने सत्यव्रत: "उदयस्था तिथिर्या हि न भवेदिनमध्यभाक् । सा खण्डा न व्रतानां स्यादारम्भश्च समापनम् ॥” इति । तत्रैव गार्योऽपि "अस्तगे च गुरौ शुक्रे बाले वृद्ध मलिम्लुचे । उद्यापनशुभारम्भान् व्रतानां नैव कारयेत् ॥" इति । ब्रह्मयामले "दिनभद्रा यदा रात्रौ रात्रिभद्रा यदा दिवा । न त्याज्या शुभकार्येषु प्राहुरेवं पुरातनाः ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy