SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २३३ आश्वलायनापस्तम्बैस्तु “यदहः पश्चाञ्चन्द्रमा अभ्युदेति तदहर्यजन्निमाँल्लोकान् उदेति" इति श्रुत्या चन्द्रदर्शनोपेतायामपि प्रतिपदीष्टेराम्नानात् सोमदर्शनवत्यपि काले कार्यो । यत्तु“पर्वणेांऽशे चतुर्थे तु कार्या नेष्टिर्द्विजोत्तमैः । द्वितीयासहित यस्माद् दूषयन्त्याश्वलायनाः ॥" इति स्मृतिवाक्यं सर्वद्विजानामविशेषेण द्वितीयायुक्तपतिपदि यागनिषेधकम्, तदावर्तनादर्वाक पर्वप्रतिपत्सन्धौ बोध्यम् । इष्टिसमाप्तिश्च प्रतिपन्मध्य एव कार्या न पर्वान्ते, "प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैः ॥" इति गार्ग्यवचनात् । कदाचित् पौर्णमास्यां विशेषमाह कात्यायन: "सन्धिश्चेत् सङ्गवार्ध्व पाक पर्यावर्त्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥” इति । एतदपि वैकल्पिकं न नियतम्, “पार्णमास्यामन्वाधानपरिस्तरणोपवासाः सद्यो वा सद्यस्कालायां सर्व क्रियते" इत्यापस्तम्बस्मरणात् । अत्र याज्ञिकास्तु"प्राधानानन्तरा पैौर्णमासी चेन्मलमासगा। तस्यामारम्भणीयादीन् न कुर्यात्तु कदाचन ॥" ३० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy