________________
तिथ्यर्कः
२३३ आश्वलायनापस्तम्बैस्तु “यदहः पश्चाञ्चन्द्रमा अभ्युदेति तदहर्यजन्निमाँल्लोकान् उदेति" इति श्रुत्या चन्द्रदर्शनोपेतायामपि प्रतिपदीष्टेराम्नानात् सोमदर्शनवत्यपि काले कार्यो ।
यत्तु“पर्वणेांऽशे चतुर्थे तु कार्या नेष्टिर्द्विजोत्तमैः । द्वितीयासहित यस्माद् दूषयन्त्याश्वलायनाः ॥" इति स्मृतिवाक्यं सर्वद्विजानामविशेषेण द्वितीयायुक्तपतिपदि यागनिषेधकम्, तदावर्तनादर्वाक पर्वप्रतिपत्सन्धौ बोध्यम् ।
इष्टिसमाप्तिश्च प्रतिपन्मध्य एव कार्या न पर्वान्ते, "प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैः ॥" इति गार्ग्यवचनात् । कदाचित् पौर्णमास्यां विशेषमाह कात्यायन:
"सन्धिश्चेत् सङ्गवार्ध्व पाक पर्यावर्त्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥” इति ।
एतदपि वैकल्पिकं न नियतम्, “पार्णमास्यामन्वाधानपरिस्तरणोपवासाः सद्यो वा सद्यस्कालायां सर्व क्रियते" इत्यापस्तम्बस्मरणात् ।
अत्र याज्ञिकास्तु"प्राधानानन्तरा पैौर्णमासी चेन्मलमासगा। तस्यामारम्भणीयादीन् न कुर्यात्तु कदाचन ॥"
३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com