SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २३२ तिथ्यर्कः यष्टव्यमित्येवं बोध्यः । [यदा ?] अमायां चन्द्रदर्शो भवति, दिने यागकरणे प्रायश्चित्तविशेषमाह कात्यायन: "यजनीयेऽह्नि सेमिश्चेद् वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्तुत्वा दण्डं दद्याद् द्विजातये ॥" इति । वृद्धवसिष्ठशातातपावपि__"श्रादित्येऽस्तमिते चन्द्रः प्रक्षीण उदयाद्यदि । प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदा ॥" 'अस्तमिते' अस्तासन्ने इति श्रीगुरवः । अतिपत्तिागस्याननुष्ठानम्, "द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापरालिकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥" इति सोमदर्शननिषेधाच्च । "अगस्तमयाद्यत्र द्वितीया तु प्रदृश्यते । तत्र यागं न कुर्वीत विश्वेदेवाः पराङ्मुखाः ॥” इति । अयं सोमदर्शननिषेधस्तु कात्यायनबौधायनपरो नाश्वलायनापस्तम्बानाम्, “यस्मिन्नहनि पुरस्तात् पश्चात् सोमो न दृश्येत तदर्यजेत" इति श्रुतेः। "द्वितीया त्रिमुहूर्ता चेत् प्रतिपद्यापरालिकी । अन्वाधान चतुर्दश्यां परतः सेामदर्शनात् ।।" इति बौधायनवचनाच्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy