________________
लौगाक्षरपि
तिथ्यर्क:
"तिथेः परस्याः घटिकास्तु याः स्युयूनास्तथैवाभ्यधिक्राश्च तासाम् ।
अर्द्ध विज्य च तथा प्रयोज्य
हासे च वृद्धौ प्रथमे दिने तत् ॥” इति ।
तथा च प्रतिपदा ह्रासे यावान् हासस्तदर्द्ध पूर्वस्मात् पर्वदिनानिष्काश्यैव प्रतिपदवृद्धौ वृद्धिनाडिकार्द्ध पूर्वस्मिन् पर्वदिने ' संयोज्य सन्धिः कल्पनीय इत्यर्थः ।
२३१
प्रतिपदा ह्रासवृद्धी पर्व भोगमादाय ज्ञेये । तथाहियदा चतुर्दशी दशघव्यात्मिका, पर्व' च दशघय्यात्मकम्, प्रतिपदेकोनविंशतिघट्यात्मिका, तदा प्रतिपदेा ह्रासः । यदा चतुदेशी पञ्चविंशतिघय्यात्मिका, पर्व एकोनविंशतिघट्यात्मकम्, प्रतिपच्चतुर्दशघट्यात्मिका, तदा वृद्ध्युदाहरणम् । एवमादीन्युदाहरणानि बोद्धव्यानि ।
अपराह्न सन्धैौ वृद्धशातातपः
“सन्धिर्यत्रापराह्न स्याद् यागः प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति ॥” इति ।
यश्च
"न यष्टव्य' चतुर्थेऽशे यागैः प्रतिपदः क्वचित् ।" इति कात्यायनवचनात् प्रतिपच्चतुर्थभागे यागनिषेधः, स मध्याह्नसन्धिविषये यागकाले सत्यालस्यादिना तमतिक्रम्य चतुर्थेऽशे न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com