________________
'२३४
तिथ्यर्क:
इति त्रिकाण्डमण्डनवचनाद् विभ्रष्टिं कृत्वा शुद्धकाले एवारम्भं कुर्वीतेत्याहु: । प्रयोगपारिजातकारस्तु -
“यद्यारम्भकाले मलमासगुरुशुक्रास्तबाल्य वार्द्धकग्रहणपापमासादि भवति तदापि प्रारम्भः कार्य एव । यानि तु तत्रारम्भनिषेधकानि
―
" उपरागोऽधिपास
यदि प्रथमपर्वणि ।
तथा मलिम्लुचे पौषे नान्वारम्भणमिष्यते ||
गुरुभार्गव
चन्द्रसूर्यग्रहे तथा । "
इति संग्रहवचनानि, तान्यालस्यादिना स्वकालानुपक्रान्तेष्टिस्था
लीपाकविषयाणि,
" नामकर्म च दर्शष्टिं यथाकालं समाचरेत् । तिपाते सति तयेाः प्रशस्ते मासि पुण्यभे || " इत्यपरार्कस्थगर्गवचनाद्” – इत्याह । अयमेव पक्षोsस्मन्मातृप्रपितामहश्रीजगद्गुरुभट्ट श्रीनारायणपदपाथोजैः प्रयेोगरत्ने श्रादृतः । इति प्रकृतीष्टेः कालो निरूपितः ॥
अथ विकृतिकालः । श्रापस्तम्बः – “यदीष्ट्या यदि पशुना यदि सामेन यजेत सामावास्यायां पौर्णमास्यां वा यजेत" इति । प्रकृतिदर्शपैार्णमासौ । “ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः" इत्यादिकाः काम्येष्टया विकृतयः । तत्र “प्रकृतिवद् विकृतिः कर्त्त व्या" इति न्यायेन विकृतीनामपि कदाचित् सन्धिदिनोत्तर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com