SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ '२३४ तिथ्यर्क: इति त्रिकाण्डमण्डनवचनाद् विभ्रष्टिं कृत्वा शुद्धकाले एवारम्भं कुर्वीतेत्याहु: । प्रयोगपारिजातकारस्तु - “यद्यारम्भकाले मलमासगुरुशुक्रास्तबाल्य वार्द्धकग्रहणपापमासादि भवति तदापि प्रारम्भः कार्य एव । यानि तु तत्रारम्भनिषेधकानि ― " उपरागोऽधिपास यदि प्रथमपर्वणि । तथा मलिम्लुचे पौषे नान्वारम्भणमिष्यते || गुरुभार्गव चन्द्रसूर्यग्रहे तथा । " इति संग्रहवचनानि, तान्यालस्यादिना स्वकालानुपक्रान्तेष्टिस्था लीपाकविषयाणि, " नामकर्म च दर्शष्टिं यथाकालं समाचरेत् । तिपाते सति तयेाः प्रशस्ते मासि पुण्यभे || " इत्यपरार्कस्थगर्गवचनाद्” – इत्याह । अयमेव पक्षोsस्मन्मातृप्रपितामहश्रीजगद्गुरुभट्ट श्रीनारायणपदपाथोजैः प्रयेोगरत्ने श्रादृतः । इति प्रकृतीष्टेः कालो निरूपितः ॥ अथ विकृतिकालः । श्रापस्तम्बः – “यदीष्ट्या यदि पशुना यदि सामेन यजेत सामावास्यायां पौर्णमास्यां वा यजेत" इति । प्रकृतिदर्शपैार्णमासौ । “ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः" इत्यादिकाः काम्येष्टया विकृतयः । तत्र “प्रकृतिवद् विकृतिः कर्त्त व्या" इति न्यायेन विकृतीनामपि कदाचित् सन्धिदिनोत्तर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy