SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: २३५ दिनेऽनुष्ठानं प्राप्येत, तदेतदुदाहृतापस्तम्बवचनेन न्यायं बाधित्वा वार्यते । प्रकृतिविकृतेः सन्निपाते निर्णयमाह कात्यायनः - "श्रावर्तनात् प्राग् यदि पर्वसन्धिः कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः । तदैव यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्युः ॥” इति । पशैौ कालमाह - "अर्द्धादो भवति नियतः पर्वसन्धिः परस्तात् कृत्वा तस्मिन्नहनि तु पशुं सद्य एव द्वयहं वा ॥ आरभ्याथ प्रकृतिरथ चेत् पर्वसन्धिः पुरस्तात् कृत्वा तस्मिन् प्रकृतिमथ तु स्यात् पशुः सद्य एव ॥” इति । ग्रयणकालानाह आपस्तम्ब: "वर्षासु श्यामाकैर्यजेत शरदि ब्रीहिभिर्वसन्ते यवैः" इति । सम्पूर्णे दर्शे साग्ने क्रममाह लौगाक्षि: " पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पितृयज्ञ ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ।। " इति । 'पक्षान्तं कर्म्म' अन्वाधानकर्म । 'अन्वाहार्यम्' दर्शश्राद्धम् । इति सङ्क्षेपः । अथ ग्रहणं निर्णीयते । माधवीये वृद्धगार्ग्यः " पूर्णिमा प्रतिपत्सन्धा राहुः सम्पूर्णमण्डलम् । ग्रसते चन्द्रमर्कञ्च दर्शप्रतिपदन्तरे ||" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy