________________
तिथ्यर्क:
२३५
दिनेऽनुष्ठानं प्राप्येत, तदेतदुदाहृतापस्तम्बवचनेन न्यायं बाधित्वा वार्यते । प्रकृतिविकृतेः सन्निपाते निर्णयमाह कात्यायनः - "श्रावर्तनात् प्राग् यदि पर्वसन्धिः
कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्युः ॥” इति ।
पशैौ कालमाह -
"अर्द्धादो भवति नियतः पर्वसन्धिः परस्तात्
कृत्वा तस्मिन्नहनि तु पशुं सद्य एव द्वयहं वा ॥ आरभ्याथ प्रकृतिरथ चेत् पर्वसन्धिः पुरस्तात्
कृत्वा तस्मिन् प्रकृतिमथ तु स्यात् पशुः सद्य एव ॥” इति ।
ग्रयणकालानाह आपस्तम्ब:
"वर्षासु श्यामाकैर्यजेत शरदि ब्रीहिभिर्वसन्ते यवैः" इति । सम्पूर्णे दर्शे साग्ने क्रममाह लौगाक्षि:
" पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पितृयज्ञ ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ।। " इति ।
'पक्षान्तं कर्म्म' अन्वाधानकर्म । 'अन्वाहार्यम्' दर्शश्राद्धम् । इति सङ्क्षेपः । अथ ग्रहणं निर्णीयते । माधवीये वृद्धगार्ग्यः
" पूर्णिमा प्रतिपत्सन्धा राहुः सम्पूर्णमण्डलम् । ग्रसते चन्द्रमर्कञ्च दर्शप्रतिपदन्तरे ||" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com